Many Jaya Jaya Sankara to Kamkoti Sandesa Sathsangam for the article. Ram Ram
Salutations to Sri Ayyaval
ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
ஈஶே தஸ்ய ச நாமானி ப்ரவிமலம் ஞானம் தயோரூர்ஜிதம்
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च ।
ப்ரேம ப்ரேம ச தத்பரேஷு விரதிஶ்சான்யத்ர ஸர்வத்ர ச
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
ஈஶேக்ஷா கருணா ச யஸ்ய நியதா வ்ரு’த் தி: ஶ்ரிதஸ்யாபி யம்
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम् ॥
தம் வந்தே நரரூபமந்தகரிபும் ஶ்ரீவேங்கடேஶம் கு3ரும்
Categories: Krithis
तिरुविशनल्लूर् श्री श्रीधरार्यकृत गङ्गाष्टक सतोत्राणि
श्री विष्णुपादसम्भूतेशमभुमूर्ध्रि निवासके।
द्विजानां प्रत्ययार्थञ्च कूपादस्मात्समुद्भव।।
स्मरणात्पापशमने पीते सुज्ञानदायिनि।
शम्भुमूर्ध्रि सदा भासे कूपादस्मात्समुद्भव।।
जगतामद्यनाशय भुवनत्रवाहिनि।
जाह्नवीति च विख्याते कूपादस्मात्समुद्भव।।
भगीरथप्रयत्नेन सम्भवे भुवने ततः।
भाग्रिथीति विख्याते कूपादस्मात्समुद्भव।।
वन्दे वाराणसुवासां वन्दे पतितपावनीम्।
वन्दे त्रिपथगां गङ्गां वन्दे त्वां कूपादस्मात्समुद्भव।।
तव कल्लोलपूरैश्च त्वं ग्रामं विशशोभने।
ब्राह्यणानां सुबोधाय मद्वाक्यं सफलं कुरु।।
उपसंहर पूरञ्च कूपे तिष्ट सुमङ्गले।
भूयान्मातस्तव ख्यातिः कूपस्थानोद्भवेति च।।
सहस्रमुख सङ्कीणे शत शब्द विलम्बिनि।
मामुद्धरापदम्बोधेः नास्ति गतिरन्यथा।।
एतत्सतवञ्च यज्जिह्वा पठतः श्रृणुते शुचिः।
सर्व पाप विनिर्मुक्तो विष्णुलोकं स गच्छति।।
एत़त्ग्रामस्थ कल्याण स्थैर्यार्थं जगदीश्वरि।
तवापि कूपतोयेस्मिन् स्थैर्यं भवतु कामदे।।
प्रतिदर्शे च तोयेस्मिन् विशेषाद्वृश्चिके शुभे।
भक्त्या ये तु प्रकुर्वन्ति स्नानं तान्पावयानघे।।
वाराणस्यान्तु विश्वेशसन्निधौ तनुमार्जनम्।
कुर्वतां यत्फलं मातस्तद्त्रापि प्रयच्छ नः।।